हरीतक्यादिवर्गः contd

श्लोक 171

ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी

श्लोक 172

ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा

श्लोक 173

कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्

श्लोक 174

उक्तं पुष्करमूलं तु पौष्करं पुष्करञ्च तत् पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः

श्लोक 175

पौष्करं कटुकं तिक्तमुक्तं वातकफज्वरान् हन्ति शोथारुचिश्वासान्विशेषात्पार्श्वशूलनुत्

श्लोक 176

कटुपर्णी हैमवती हेमक्षीरी हिमावती हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते

श्लोक 177

हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत्

श्लोक 178

शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका अजशृङ्गी च चक्रा च कर्कटाख्या च कीर्त्तिता

श्लोक 179

शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् श्वासोर्ध्ववाततृट्कासहिक्काऽरुचिवमीन्हरेत्

श्लोक 180

कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकाऽपि च श्रीपर्णिका कुमुदिका भद्रा भद्र वतीति च

श्लोक 181

कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् हन्ति श्वासप्रमेहार्शः कासकण्ठामयारुचीः

श्लोक 182

भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका

श्लोक 183

भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम् शोथकासकफश्वासपीनसज्वरमारुतान्

श्लोक 184

पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः

श्लोक 185

भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्द्रुजः योनि रोगान्प्रमेहांश्च प्लीह शूल व्रणानि च

श्लोक 186

धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता

श्लोक 187

धातकी कटुका शीता मृदुकृत्तुवरा लघुः तृष्णाऽतीसारपित्तास्रविषकृमिविसर्पजित्

श्लोक 188

मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका

श्लोक 189

मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका

श्लोक 190

भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत्

श्लोक 191

गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् रक्तातीसार कुष्ठास्र वीसर्पव्रणमेहनुत्

श्लोक 192

स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम्

श्लोक 193

लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः

श्लोक 194

ब्रिआ!ह्मण्यङ्गारवल्ली च खरशाखा च हञ्जिका अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत्

श्लोक 195

व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः

श्लोक 196

हरिद्रा काञ्चनी पीता निशाऽख्या वरवर्णिनी कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी

श्लोक 197

हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा

श्लोक 198

दार्वी मेदाऽम्रगन्धा च सुरभीदारु दारु च कर्पूरा पद्मपत्रा स्यात्सुरीमत्सुरतारका

श्लोक 199

आम्रगंधिर्हरिद्रा या सा शीता वातला मता पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी

श्लोक 200

अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः

श्लोक 201

दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च कटङ्कटेरी पीता च भवेत्सैव पचम्पचासैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च

श्लोक 202

पीतद्रुश्च हरिद्रुश्च पीतदारु च पीतकम् दार्वी निशागुणा किन्तु नेत्र कर्णास्यरोगनुत्

श्लोक 203

दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम् तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम्

श्लोक 204

रसाञ्जनं तार्क्ष्यशैलं रसगर्भश्च तार्क्ष्यजम् रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत्

श्लोक 205

उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत्

श्लोक 206

अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका शशिलेखा कृष्णफला सोमा पूतिफलीति च

श्लोक 207

सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता बाकुची मधुरा तिक्ता कटुपाका रसायनी

श्लोक 208

विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत्

श्लोक 209

तत्फलं पित्तलं कुष्ठकफानिलहरं कटु केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत्

श्लोक 210

चक्रमर्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि

श्लोक 211

चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः हृद्यो हिमः कफश्वासकुष्ठदद्रुकृमीन्हरेत्

श्लोक 212

हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम्

श्लोक 213

विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषाऽरुणा शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा

श्लोक 214

विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् कफपित्तातिसारामविषकासवमिकृमीन्

श्लोक 215

लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः

श्लोक 216

लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत्

श्लोक 217

लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः

श्लोक 218

यदाऽमृतं वैनतेयो जहार सुरसत्तमात् तदा ततोऽपतद् विन्दुः स रसोनोऽभवद्भुवि

श्लोक 219

पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः तस्माद्र सोन इत्युक्तो द्र व्याणां गुणवेदिभिः

श्लोक 220

कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः

श्लोक 221

रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः

श्लोक 222

भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः बलवर्णकरो मेधाहितो नेत्र्! यो रसायनः

श्लोक 223

हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति

श्लोक 224

मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम् व्यायाममातपं रोषमतिनीरं पयो गुडम्

श्लोक 225

रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम्

श्लोक 226

पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः

श्लोक 227

स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः हरते केवलं वातं बलवीर्यकरो गुरुः

श्लोक 228

भल्लातकं त्रिषु प्रोक्तमरुष्कोरुष्करोऽग्निकः तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत्

श्लोक 229

भल्लातकफलं पक्वं स्वादुपाकरसं लघु कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम्

श्लोक 230

मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरकृमीन्

श्लोक 231

तन्मज्जा मधुरा वृष्या बृंहणी वातपित्तहा वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत्

श्लोक 232

भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान्

श्लोक 233

भङ्गा गञ्जा मातुलानी मादिनी विजया जया

श्लोक 234

भङ्गा कफ हरी तिक्ता ग्राहिणी पाचनी लघुः तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी

श्लोक 235

तिलभेदः खसतिलः खाखसश्चापि स स्मृतः स्यात् खाखसफलोद्भूतं वल्कलं शीतलं लघु

श्लोक 236

ग्राहि तिक्तं कषायञ्च वातकृत् कफकासहृत्

श्लोक 237

धातूनां शोषकं रूक्षंमदकृद्वाग्विवर्धनम् मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनम्

श्लोक 238

उक्तं खसफलक्षीरमाफूकमहिफेनकम् आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् तथा खसफलोद्भूतवल्कलप्रायमित्यपि

श्लोक 239

उच्यन्ते खसबीजानि ते खाखसतिला अपि

श्लोक 240

खसबीजानिबल्यानि वृष्याणि सुगुरूणि च जनयन्ति कफं तानि शमयन्ति समीरणम्

श्लोक 241

सैन्धवोऽस्त्री शीतशिवं मणिमन्थञ्च सिन्धुजम् सैन्धवं लवणं स्वादु दीपनं पाचनं लघु स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्! यं त्रिदोषहृत्

श्लोक 242

शाकम्भरीयं कथितं गडाख्यं रोमकं तथा

श्लोक 243

गडाख्यं लघु वातघ्नमत्युष्णं भेदिपित्तलम् तीक्ष्णोष्णं चापि सूक्ष्मञ्चाभिष्यन्दिकटुपाकि च

श्लोक 244

सामुद्रं यत्तुलवणमक्षीवं वशिरञ्च तत् समुद्र जं सागरजं लवणोदधिसम्भवम्

श्लोक 245

सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु नात्युष्णं दीपनं भेदि सक्षारमविदाहि च श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम्

श्लोक 246

बिडं पाक्यञ्च कृतकं तथा द्रा विडमासुरम् बिडं सक्षारमूर्ध्वाधः कफवातानुलोमनम्

श्लोक 247

दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत्

श्लोक 248

सौवर्चलं स्याद्रुचकं मन्थपाकञ्च तन्मतम् रुचकं रोचनं भेदि दीपनं पाचनं परम्

श्लोक 249

सस्नेहं वातनुन्नातिपित्तलं विशदं लघु उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित्

श्लोक 250

औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम्

श्लोक 251

चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम् लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत्

श्लोक 252

पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः स्वर्जिकाऽपि स्मृतः क्षारः कापोतः सुखवर्चकः

श्लोक 253

कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः

श्लोक 254

निहन्ति शूलवातामश्लेष्मश्वासगलामयान् पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान्

श्लोक 255

स्वर्जिकाऽल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् सुवर्चिका स्वर्जिकावद् बोद्धव्या गुणतो जनैः

श्लोक 256

सौभाग्यं टङ्कणं क्षारं धातुद्रा वकमुच्यते टङ्कणं वह्निकृद्रू क्षं कफहृद्वातपित्तकृत्

श्लोक 257

स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम् टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम्

श्लोक 258

मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परम् पलाश वज्रि शिखरि चिञ्चाऽकतिलनालजाः

श्लोक 259

यवजः स्वर्जिका चेति क्षाराष्टकमुदाहृतम् क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम्

श्लोक 260

चुक्रंसहस्रवेधि स्याद्र साम्लं शुक्तमित्यपि चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम्

श्लोक 261

शूलगुल्मविबन्धामवातश्लेष्महरं सरम् वमितृष्णाऽस्यवैरस्यहृत्पीडावह्निमान्द्यहृत्