श्लोक 1
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत्
श्लोक 2
तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम् दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत्
श्लोक 3
पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत् निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके
श्लोक 4
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत्
श्लोक 5
बलं सवीर्य्यं हरते नराणां रोगव्रजं पोषयतीह काये असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात्
श्लोक 6
स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् तद्गोलकसमं गन्धं निदध्यादधरोत्तरम्
श्लोक 7
गोलकञ्च ततो रुद्ध्वा शरावदृढसम्पुटे
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः
श्लोक 8
काञ्चने गलिते नागं षोडशांशेन निक्षिपेत् चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम्
श्लोक 9
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम्
श्लोक 10
शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते
श्लोक 11
काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः कज्जलद्यं हेमपत्राणि लेपयेत्समया तथा
श्लोक 12
काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् धृत्वा तत्संपुटे गोलं मृण्मूषासम्पुटे च तत्
श्लोक 13
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् वह्निं खरतरं कुर्यादेवं दत्त्वा पुटत्रयम्
श्लोक 14
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्
श्लोक 15
ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला
श्लोक 16
शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः
श्लोक 17
ततस्तु गलिते हेम्नि कल्कोऽय दीयते समः
पुनर्धमेदतितरां यथा कल्को विलीयते
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत्
श्लोक 18
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम्
श्लोक 19
पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
हृद्यामायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित्
श्लोक 20
असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् करोति रोगान् मृत्युं च तद्धन्याद् यत्नतस्ततः
श्लोक 21
लोहादेरनपुनर्भावस्तद्गुणत्वं गुणाढ्यता सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत्
श्लोक 22
गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके वनोपलसहस्रेण पूरिते पुटनौषधम्
श्लोक 23
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत्
श्लोक 24
वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम्
श्लोक 25
सपादहस्तमानेन कुण्डे निम्ने तथाऽयते वनोपलसहस्रेण पूर्णे मध्ये विधारयेत्
श्लोक 26
पुटनद्र व्यसंयुक्तां कोष्टिकां मुद्रि तां मुखे
अधोऽधानि करण्डानि अर्धान्युपरि निक्षिपेत्
एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम्
श्लोक 27
अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम्
श्लोक 28
षोडशाङ्गुलके खाते कस्यचित्कौक्कुटं पुटम्
श्लोक 29
यत्पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः कपोतपुटमेतत्तु कथितं पुटपण्डितैः
श्लोक 30
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् गोबरं तत्समाख्यातं वरिष्ठं रससाधने
श्लोक 31
बृहद्भाण्डस्थितैर्यत्र गौबरैर्दीयते पुटम् तद् गोबरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि
श्लोक 32
बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् क्षिप्त्वाऽग्नि मुद्र येद्भाण्डं तद्भाण्डपुटमुच्यते
श्लोक 33
भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके कूपिकाकण्ठपर्यन्तं वालुकाभिश्च पूरिते
श्लोक 34
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते बालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम्
श्लोक 35
निबद्धमौषधं सूतं भूर्जे तत्त्रिगुणे वरे रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि
श्लोक 36
सन्धानपूर्णकुम्भान्तःस्वावलम्बनसन्धितम्
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि
श्लोक 37
साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च पिधाय पच्यते तत्र तद् यन्त्रं स्वेदनं स्मृतम्
श्लोक 38
अधःस्थाल्यां रसं क्षिप्त्वा विदध्यात्तन्मुखोपरि स्थालीमूर्ध्वमुखीं सम्यङ्निरुध्य मृदुमृत्स्नया
श्लोक 39
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम्
श्लोक 40
स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्र समुत्तमम् विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम्
श्लोक 41
बालुकाभिः समस्ताङ्गं गर्त्ते मूषां रसान्विताम् दीप्तोपलैः संवृणुयाद् यन्त्रं भूधरनामकम्
श्लोक 42
यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रि ते मुखे
श्लोक 43
गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम् वर्णाढ्यं चन्द्र वत् स्वच्छं तारं नवगुणं शुभम्
श्लोक 44
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम्
श्लोक 45
पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत् निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके
श्लोक 46
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा एवं रजतपत्राणां विशुद्धिः संप्रजायते
श्लोक 47
रूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात्
श्लोक 48
भागैकं तालकं मर्द्यं याममम्लेन केनचित् तेन भागत्रयं तारपत्त्राणि परिलेपयेत्
श्लोक 49
धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते
श्लोक 50
स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत्
श्लोक 51
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् पुटेच्चतुर्दशपुटैस्तारं भस्म प्रजायते
श्लोक 52
रौप्यं शीतं कषायं च स्वादुपाकरसं सरम्
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिराद्र् ध्रुवम्
श्लोक 53
जपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम् लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते
श्लोक 54
कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम् लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्त्तितम्
श्लोक 55
पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत् निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके
श्लोक 56
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते
श्लोक 57
एको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः विरेकस्वेद उत्क्लेदो मूर्च्छा दाहोऽरुचिस्तथा
श्लोक 58
न विषं विषमित्याहुस्ताम्रन्तु विषमुच्यते एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्त्तिताः
श्लोक 59
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत्
श्लोक 60
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् ततः उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च
श्लोक 61
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम्
श्लोक 62
तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम् धृत्वा तद् गोलकं भाण्डे शरावेण च रोधयेत्
श्लोक 63
बालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः
दत्वा भाण्डमुखे मुद्रा ततश्चुल्ल्यां विपाचयेत् ६३
श्लोक 64
क्रमवृद्ध्याऽग्निना सम्यग्यावद्यामचतुष्टयम् स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्र वैः
श्लोक 65
यामैकं गोलकं तच्च विक्षिपेच्छूरणोदरे मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः
श्लोक 66
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम्
श्लोक 67
वमनं च विरेकं च भ्रमं क्लममथारुचिम् विदाहं स्वेदमुत्क्लेदं न करोति कदाचन
श्लोक 68
ताम्रं कषायं मधुरं सतिक्तमम्लञ्च पाके कटु सारकं च पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनं च
श्लोक 69
पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान्पीनसमम्लपित्तम् शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणमल्पमेतत्
श्लोक 70
एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः दाहः स्वेदोऽरुचिर्मूर्च्छोत्क्लेदो रेको वमिर्भ्रमः
श्लोक 71
वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम्
श्लोक 72
वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च
श्लोक 73
विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्चरञ्च मेहाश्मरीविद्र धिमुष्करोगान् नागोऽपि कुर्यात्कथितान्विकारान्
श्लोक 74
वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेऽपि च त्रिधा
श्लोक 75
मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः पिष्ट्वा वङ्गचतुर्थांशमथोदर्व्या प्रचालयेत्
श्लोक 76
ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत्
श्लोक 77
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्
तालेन दशमांशेन याममेकं ततः पुटेत्
एवं दशपुटैः पक्वं वङ्गं भवति मारितम्
श्लोक 78
वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफकृमीन् निहन्ति पाण्डुं सश्वासं नेत्र्! यमीषत्तु पित्तलम्
श्लोक 79
सिंहो गजौघं तु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम्
श्लोक 80
यशदं गिरिजं तस्य दोषाः शोधनमारणे वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ
श्लोक 81
यशदं च सरं तिक्तं शीतलं कफपित्तहृत् चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत्
श्लोक 82
तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः शोधनञ्चापि तस्येव भिषग्भिर्गदितं पुरा
श्लोक 83
ताम्बूलरससम्पिष्टं शिलालेपात् पुनः पुनः द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते
श्लोक 84
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः
श्लोक 85
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला काञ्जिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च
श्लोक 86
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः