श्लोक 1
मधु माक्षिक माध्वीकक्षौद्र सारघमीरितम् मक्षिकावरटीभृङ्गवान्तं पुष्परसोद्भवम्
श्लोक 2
मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम् चक्षुष्यं दीपनं स्वर्यं व्रणशोधनरोपणम्
श्लोक 3
सौकुमार्यकरं सूक्ष्मं परं स्रोतोविशोधनम् कषायानुरसं ह्लादि प्रसादजनकं परम्
श्लोक 4
वर्ण्यं मेधाकरं वृष्यं विशदं रोचनं हरेत् कुष्ठार्शःकास पित्तास्र कफ मेह क्लमकृमीन्
श्लोक 5
मेदस्तृष्णा वमिश्वास हिक्काऽतीसारविड्ग्रहान् दाहक्षतक्षयांस्तत्तु योगवाह्यल्पवातलम्
श्लोक 6
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकंछात्रमित्यपि आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः
श्लोक 7
मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः ताभिः कृतं तैलवर्णं माक्षिकं परिकीर्त्तितम्
श्लोक 8
माक्षिकं मधुषु श्रेष्ठं नेत्रामयहरं लघु कामलाऽशक्षतश्वासकासक्षयविनाशनम्
श्लोक 9
किञ्चित्सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्योऽलिभिश्चितं निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम्
श्लोक 10
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु स्वादुपाकमभिष्यन्दि विशेषात्पिच्छिलं हिमम्
श्लोक 11
मक्षिकाःकपिलाः सूक्ष्माः क्षुद्रा ऽख्यास्तत्कृतं मधु
मुनिभिः क्षौद्र मित्युक्तंतद्वर्णात्कपिलं भवेत्
गुणैर्माक्षिकवत्क्षौद्रं विशेषान्मेहनाशनम्
श्लोक 12
कृष्णा या मशकोपमा लघुतराः प्रायो महापीडिका
वृक्षाणां पृथुकोटरान्तरगताः पुष्पासवं कुर्वते
तास्तज्ज्ञैरिह पुत्तिका निगदितास्ताभिः कृतं सर्पिषा
तुल्यं यन्मधु तद्वनेचरजनैः संकीर्तितं पौत्तिकम्
श्लोक 13
पौत्तिकं मधु रूक्षोष्णं पित्तदाहास्रवातकृत् विदाहि मेहकृच्छ्रघ्नं ग्रन्थ्यादिक्षतशोषि च
श्लोक 14
वरटाः कपिलाः पीताः प्रायो हिमवतो वने
श्लोक 15
कुर्वन्ति च्छत्रकाकारं तज्जं छात्रं मधु स्मृतम् छात्रं कपिलपीतं स्यात्पिच्छिलं शीतलं गुरु
श्लोक 16
स्वादुपाकं कृमिश्वित्ररक्तपित्तप्रमेहजित् भ्रमतृण्मोहविषहृत्तर्पणञ्चगुणाधिकम्
श्लोक 17
मधूकवृक्षनिर्यासं जरत्कार्वाश्रभोद्भवम् स्रवत्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः
श्लोक 18
तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः अर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः
श्लोक 19
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् कषायं कटुकं पाके तिक्तञ्च बलपुष्टिकृत्
श्लोक 20
प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु
श्लोक 21
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् कपायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत्
श्लोक 22
संस्रुत्य पतितं पुष्पाद्यत्तु पत्रोपरि स्थितम् मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम्
श्लोक 23
दालं मधु लघु प्रोक्तं दीपनीयं कफापहम् कषायानुरसं रूक्षं रुच्यं छर्दिप्रमेहजित्
श्लोक 24
अधिकं मधुरं स्निग्धं बृंहणं गुरु भारिकम्
श्लोक 25
नवं मधुभवेत्पुष्टयै नातिश्लेष्महरं सरम् पुराणं ग्राहकं रूक्षं मेदोघ्नमतिलेखनम्
श्लोक 26
मधुनः शर्करायाश्च गुडस्यापि विशेषतः एकसंवत्सरे वृत्ते पुराणत्वं स्मृतं बुधैः
श्लोक 27
विषपुष्पादपि रसं सविषा भ्रमरादयः गृहीत्वा मधु कुर्वन्ति तच्छीतं गुणवन्मधु
श्लोक 28
विषान्वयात्तदुष्णन्तु द्र व्येणोष्णेन वा सह उष्णार्त्तस्योष्णकाले च स्मृतं विषसमं मधु
श्लोक 29
मयनं तु मधूच्छिष्टं मधुशेषं च सिक्थकम् मध्वाधारो मदनकं मधूषितमति स्मृतम्
श्लोक 30
मदनं मृदु सुस्निग्धं भूतघ्नं व्रणरोपणम् भग्नसन्धान्कृद्वातकुष्ठवीसर्परक्तजित्