श्लोक 1
पानीयं सलिलं नीरं कीलालं जलमम्बु च
आपो वार्वारि कं तोयं पयः पाथस्तथोदकम्
जीवनं वनमम्भोऽणोऽमृतं घनरसोऽपि च
श्लोक 2
पानीयं श्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्रा च्छर्दिविबन्धहृद्बलकरं निद्रा हरं तर्पणम्
हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम्
श्लोक 3
पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा
श्लोक 4
दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम् तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम्
श्लोक 5
धाराभिः पतितं तोयं गृहीतं स्फीतवाससा शिलायां वसुधायां वा धौतायां पतितञ्च तत्
श्लोक 6
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते भाजने मृण्मये वाऽपि स्थापितं धारमुच्यते
श्लोक 7
धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम्
श्लोक 8
पाचनं मतिकृन्मूर्च्छातन्द्रा दाहश्रमक्लमान् तृष्णां हरति तत् पथ्यं विशेषात्प्रावृषि स्मृतम्
श्लोक 9
धाराजलं च द्विविधं गाङ्गसामुद्र भेदतः
श्लोक 10
आकाशगङ्गासम्बन्धिजलमादाय दिग्गजाः मेघैरन्तरिता वृष्टिं कुर्वन्तीति वचः सताम्
श्लोक 11
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः सर्वथा तज्जलं ज्ञेयं तथैव चरके वचः
श्लोक 12
स्थापिते हेमजे पात्रे राजते मृण्मयेऽपि वा शाल्यन्नं येन संसिक्तं भवेदक्लेदि वर्णवत्
श्लोक 13
तद्गाङ्गं सर्वदोषघ्नं ज्ञेयं सामुद्र मन्यथा तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम्
श्लोक 14
विस्रञ्च दोषलं तीक्ष्णं सर्वकर्मसु नो हितम् सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत्
श्लोक 15
यतोऽगस्त्यस्य दिव्यर्षेरुदयात्सकलं जलम् निर्मलं निर्विषं स्वादु शुक्रलं स्याददोषलम्
श्लोक 16
फूत्कारविषवातेन नागानां व्योमचारिणाम् वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना
श्लोक 17
अनार्त्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् तत्त्रिदोषाय सर्वेषां देहिनां परिकीर्त्तितम्
श्लोक 18
दिव्यवाय्वग्निसंयोगात् संहताः खात् पतन्ति याः पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः
श्लोक 19
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम् दारुणं शीतलं सान्द्रं पित्तहृत्कफवातकृत्
श्लोक 20
अपि नद्याः समुद्रा न्ते वह्निरापस्तदुद्भवाः धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः
श्लोक 21
अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हिताः
तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम्
कफोरुस्तम्भकण्ठाग्निमेहगण्डादिरोगनुत्
श्लोक 22
हिमवच्छिखरादिभ्यो द्र वीभूयाभिवर्षति
यत्तदेव हिमं हैमं जलमाहुर्मनीषिणः
हिमाम्बु शीतं पित्तघ्नं गुरु वातविवर्द्धनम्
श्लोक 23
और्वानलधूमेरितमम्बु समुद्र स्य यद्घनीभूतम् पवनानीतमुदीच्यां तद्धिममिति कथ्यते सद्भिः
श्लोक 24
हिमन्तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि न तद् दूषयते वातं न च पित्तं न वा कफम्
श्लोक 25
भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः
जाङ्गलं परमानूपं ततः साधारणं क्रमात्
श्लोक 26
अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम्
श्लोक 27
वह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः देशोऽनूप इति ख्यात आनूपं तद्भवं जलम्
श्लोक 28
मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः तस्मिन्देशे यदुदकं तत्तु साधारणं स्मृतम्
श्लोक 29
जाङ्गलं सलिलं रूक्षं लवणं लघु पित्तनुत् वह्निकृत्कफहृत्पथ्यं विकारान्हरते बहून्
श्लोक 30
आनूपं वार्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु वह्निहृत्कफकृद्हृद्यं विकारान्कुरुते बहून्
श्लोक 31
साधारणं तु मधुरं दीपनं शीतलं लघु तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत्
श्लोक 32
नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम्
श्लोक 33
नादेयमुदकं रूक्षं वातलं लघु दीपनम् अनभिष्यन्दि विशदं कटुकं कफपित्तनुत्
श्लोक 34
नद्यः शीघ्रवहा लघ्व्यः सर्वा याश्चामलोदकाः गुर्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः
श्लोक 35
हिमवत्प्रभवाः पथ्या नद्योऽश्माहतपाथसः गङ्गाशतद्रुसरयूयमुनाऽद्या गुणोत्तमाः
श्लोक 36
सह्यशैलभवा नद्यो वेणागोदावरीमुखाः कुर्वन्ति प्रायशः कुष्ठमीषद्वातकफावहाः
श्लोक 37
नदीसरस्तडागस्थे कूपप्रस्रवणादिजे उदके देशभेदेन गुणान्दोषांश्च लक्षयेत्
श्लोक 38
विदार्य भूमिं निम्नां यन्महत्या धारया स्रवेत् तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः
श्लोक 39
औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम् प्रीणनं मधुरं बल्यमीषद्वातकरं लघु
श्लोक 40
शैलसानुस्रवद्वारिप्रवाहो निर्झरो झरः स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम्
श्लोक 41
नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु मधुरं कटुपाकं च वातलं स्यादपित्तलम्
श्लोक 42
नद्याः शैलादिरुद्धायाः यत्र संस्रुत्य तिष्ठति तत्सरो जलजच्छन्नं तदम्भः सारसं स्मृतम्
श्लोक 43
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु रोचनं तुवरं रूक्षं बद्धमूत्रमलं स्मृतम्
श्लोक 44
प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः
जलाशयस्तडागः स्यात्ताडागं तज्जलं स्मृतम्
श्लोक 45
ताडागमुदकं स्वादु कषायं कटुपाकि च वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम्
श्लोक 46
पाषाणैरिष्टकाभिर्वा बद्धः कूपो बृहत्तरः ससोपानो भवेद्वापी तज्जलं वाप्यमुच्यते
श्लोक 47
वाप्यं वारि यदि क्षारं पित्तकृत्कफवातहृत् तदेव मिष्टं कफकृद्वातपित्तहरं भवेत्
श्लोक 48
भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते
श्लोक 49
कौपं पयो यदि स्वादु त्रिदोषघ्नं हितं लघु तत्क्षारं कफवातघ्नं दीपनं पित्तकृत्परम्
श्लोक 50
शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् लतावितानसंच्छन्नं चौञ्ज्यमित्यभिधीयते
श्लोक 51
अश्मादिभिरबद्धं यत्तच्चौञ्ज्यमिति वा परे तत्रत्त्यमुदकं चौञ्ज्यं मुनिभिस्तदुदाहृतम्
श्लोक 52
चौञ्ज्यं वह्निकरं नीरं रूक्षं कफहरं लघु मधुरं पित्तनुद्रुच्यं पाचनं विशदं स्मृतम्
श्लोक 53
अल्पं सरः पल्वलं स्याद्यत्र चन्द्र र्क्षगे रवौ
श्लोक 54
न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम् पाल्वलं वार्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत्
श्लोक 55
नद्यादिनिकटे भूमिर्या भवेद्वालुकामयी उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः
श्लोक 56
विकिरं शीतलं स्वच्छं निर्दोषं लघु च स्मृतम् तुवरं स्वादु पित्तघ्नं क्षारं तर्त्पित्तलं मनाक्
श्लोक 57
केदारः क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम् कैदारं वार्यभिष्यन्दि मधुरं गुरु दोषकृत्
श्लोक 58
वार्षिकं तदहर्वृष्टं भूमिस्थमहितं जलम् त्रिरात्रमुषितं तत्तु प्रसन्नममृतोपमम्
श्लोक 59
हेमन्ते सारसं तोयं ताडागं वा हितं स्मृतम् हेमन्ते विहितं तोयं शिशिरेऽपि प्रशस्यते
श्लोक 60
वसन्तग्रीष्मयोः कौपं वाप्यं वा नैर्झरं जलम् नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधैः
श्लोक 61
विषवद्वनवृक्षाणां पत्राद्यैर्दूषितं यतः
औद्भिदं वाऽन्तरिक्षं वा कौपं वा प्रावृषि स्मृतम्
शस्तं शरदि नादेयं नीरमंशूदकं परम्
श्लोक 62
दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम्
श्लोक 63
अनभिष्यन्दि निर्दोषमान्तरिक्षजलोपमम् बल्यं रसायनं मेध्यं शीतं लघु सुधासमम्
श्लोक 64
शरदि स्वच्छमुदयादगस्त्यादखिलं हितम्
श्लोक 65
पौषे वारि सरोजातं माघे तत्तु तडागजम् फाल्गुने कूपसम्भूतं चैत्रे चौञ्ज्यं हितम् मतम्
श्लोक 66
वैशाखे नैर्झरं नीरं ज्येष्ठे शस्तं तथौद्भिदम् आषाढे शस्यते कौपं श्रावणे दिव्यमेव च
श्लोक 67
भाद्रे कौपं पयः शस्तमाश्विने चौञ्ज्यमेव च कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते
श्लोक 68
भौमानामम्भसां प्रायो ग्रहणं प्रातरिष्यते शीतत्वं निर्मलत्वञ्च यतस्तेषां मतो गुणः
श्लोक 69
अत्यम्बुपानान्न पिच्यतेऽन्न निरम्बुपानाच्च स एव दोषः तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि
श्लोक 70
मूर्च्छापित्तोष्ण दाहेषु विषे रक्ते मदात्यये
श्रमे भ्रमे विदग्धेऽन्नेतमके वमथौ तथा
ऊर्ध्वगे रक्त पित्ते च शीतमम्भः प्रशस्यते
श्लोक 71
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे आध्माने स्तिमिते कोष्ठे सद्यःशुद्धौ नवज्वरे
श्लोक 72
अरुचिग्रहणीगुल्मश्वासकासेषु विद्र धौ हिक्कायां स्नेहपाने च शीताम्बु परिवर्जयेत्
श्लोक 73
अरोचके प्रतिश्याये मन्देऽग्नौ श्वयथौ क्षये
मुखप्रसेके जठरे कुष्ठे नेत्रामये ज्वरे
व्रणे च मधुमेहे च पिबेत्पानीयमल्पकम्
श्लोक 74
जीवनं जीविनां जीवो जगत् सर्वन्तु तन्मयम् नातोऽत्यन्तनिषेधेन कदाचिद्वारि वार्य्यते
श्लोक 75
तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी तस्माद् देयं तृषाऽत्ताय पानीयं प्राणधारणम्
श्लोक 76
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति अतः सर्वास्ववस्थासु न क्वचिद्वारि वारयेत्
श्लोक 77
अगन्धमव्यक्तरसं सुशीतं तर्षनाशनम् स्वच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते
श्लोक 78
पिच्छिलं कृमिलं क्लिन्नं वर्णशैवालकर्दमैः विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम्
श्लोक 79
कलुषं छन्नमम्भोजपर्णनीलीतृणादिभिः दुःस्पर्शनमसंस्पृष्टं सौरचान्द्र मरीचिभिः
श्लोक 80
अनार्त्तवं वार्षिकं तु प्रथमं तच्च भूमिगम् व्यापन्नं परिहर्त्तव्यं सर्वदोषप्रकोपणम्
श्लोक 81
तत् कुर्यात्स्नानपानाभ्यां तृष्णाऽध्मानचिरज्वरान् कासाग्निमान्द्याभिष्यन्दकण्डूगण्डादिकं तथा
श्लोक 82
निन्दितं चापि पानीयं क्वथितं सूर्यतापितम् सुवर्णं रजतं लौहं पाषाणं सिकतामपि
श्लोक 83
भृशं सन्ताप्य निर्वाप्य सप्तधा साधितं तथा कर्पूरजातिपुन्नागपाटलादिसुवासितम्
श्लोक 84
शुचिसान्द्र पटस्रावि क्षुद्र जन्तुविवर्जितम् स्वच्छं कनकमुक्ताऽद्यै शुद्धं स्याद्दोषवर्जितम्
श्लोक 85
पर्णमूलविसग्रन्थिमुक्ताकनकशैवलैः गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम्
श्लोक 86
पीतं जलं जीर्य्यति यामयुग्माद्यामैकमात्राच्छृतशीतलञ्च तदर्धमात्रेण शृतं कदुष्णं पयःप्रपाके त्रय एव कालाः