भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 6

श्लोक 1

रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते

श्लोक 2

ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः

श्लोक 3

कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः

श्लोक 4

कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम्

श्लोक 5

साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः
सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते

श्लोक 6

यापनीयं तु तं विद्यात्क्रिया धारयते हि यम् क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति

श्लोक 7

प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम् प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः

श्लोक 8

साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्

श्लोक 9

रोगारम्भकदोषस्य प्रकोपादुपजायते योऽन्यो विकारः स बुधैरुपद्र व इहोदितः

श्लोक 10

रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते तल्लक्षणमरिष्टं स्याद्रि ष्टं चापि तदुच्यते

श्लोक 11

या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते
दोषधातुमलानां या साम्यकृत्सैव रोगृहृत्

श्लोक 12

याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम्

श्लोक 13

या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्

श्लोक 14

जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ

श्लोक 15

रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्

श्लोक 16

यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया

श्लोक 17

भेषजं केवलं कर्तुं यो जानाति न चामयम् वैद्यकर्म स चेत्कुर्याद्वधमर्हति राजतः

श्लोक 18

यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना

श्लोक 19

यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक् स मुह्यत्यातुरं प्राप्य तथा भीरुरिवाहवम्

श्लोक 20

यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः देश कालविभागज्ञस्तस्य सिद्धिर्न संशयः

श्लोक 21

आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः भेषजानां विधानेन ततः कुर्याच्चिकित्सतम्

श्लोक 22

विकारनामाकुशलो न जिह्रीयात्कदाचन न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः

श्लोक 23

नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्

श्लोक 24

ये न कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः अतो वैद्यैः श्रमः कार्यः साध्यासाध्यपरीक्षणे

श्लोक 25

शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम् कृत्वा कुर्यात्क्रियां प्राप्तां क्रियाकालं न हापयेत्

श्लोक 26

अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता क्रियाहीनाऽतिरिक्ता च साध्येष्वपि न सिध्यति

श्लोक 27

विकारेऽल्पे महत्कर्म क्रिया लघ्वी गरीयसि
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता

श्लोक 28

क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः

श्लोक 29

क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः ताभिस्तु भिन्नरूपाभिः साङ्कर्यं नैव दुष्यति

श्लोक 30

न चैकान्तेन निर्दिष्टे शास्त्रे निविशते बुधः स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता

श्लोक 31

उत्पद्यते च साऽवस्था दोषकालबलं प्रति यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम्

श्लोक 32

क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्मः क्वचिद्यशः कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला

श्लोक 33

आयुर्वेदोदितां युक्तिं कुर्वाणाश्च हिताय ये पुण्यायुर्वृद्धिसंयुक्ता नीरोगाश्च भवन्ति ते

श्लोक 34

नैव कुर्वीत लोभेन चिकित्सापुण्यविक्रयम् ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये

श्लोक 35

चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते

श्लोक 36

न देशो मनुजैर्हीनो न मनुष्या निरामयाः ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः

श्लोक 37

रोगी दूतो भिषग्दीर्घमायुर्द्र व्यं सुसेवकः सदौषधं चिकित्साया इत्यङ्गानि बुधा जगुः

श्लोक 38

रोगो यस्यास्तिरोगी स सचिकित्स्यस्तु यादृशः यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम्

श्लोक 39

निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रि यः

श्लोक 40

आयुष्मान्सत्त्ववान्साध्यो द्र व्यवान्मित्रवानपि चिकित्स्यो भिषजां रोगी वैद्यवाक्यकृदास्तिकः

श्लोक 41

चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चः यः

श्लोक 42

वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः भिषजामविधेयः स्युर्नोपक्रम्या भिषग्विधाः

श्लोक 43

एतानुपाचरन् वैद्यो वहून् दोषानवाप्नुयात्

श्लोक 44

यश्चिकित्सकमानेतुं याति दूतः स कथ्यते स च यादृक् समुचितस्तादृगत्र निगद्यते

श्लोक 45

दूताः सुजातयोऽव्यङ्गाः पटवो निर्मलाम्बराःसुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः

श्लोक 46

सजातयः सुचेष्टाश्च सजीवदिशि सङ्गताः भिषजं समये प्राप्ता रोगिणः सुखहेतवे

श्लोक 47

वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते न शुभं सौम्यशकुनं प्रदीप्तं तु सुखावहम्

श्लोक 48

तथाहि रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुम् दैवज्ञं देवतां मित्रं फलेन फलमादिशेत्

श्लोक 49

चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते स च यादृक्समीचीनस्तादृशोऽपि निगद्यते

श्लोक 50

तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः

श्लोक 51

प्रत्युत्पन्नमतिर्धीमान् व्यवसाथी प्रियंवदः सत्यधर्मपरो यश्च वैद्य ईदृक् प्रशस्यते

श्लोक 52

कुचैलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा यदि

श्लोक 53

व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः

श्लोक 54

भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत्

श्लोक 55

सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं वक्त्रं तथैव च स्वादु गन्धं विजानाति स साध्यो नात्र संशयः

श्लोक 56

पाणिपादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत् जिह्वातु कोमला यस्य स रोगी न विनश्यति

श्लोक 57

स्वेदहीनो ज्वरो यस्य श्वासो नासिकया चरेत् कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम्

श्लोक 58

यस्य निद्रा सुखेन स्याच्छरीरं द्युतिमद्भवेत् इन्द्रि याणि प्रसन्नानि स रोगी नैव नश्यति

श्लोक 59

शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् तदरिष्टं समासेन व्यासतश्च निबोध मे

श्लोक 60

शृणोति विविधाञ्छब्दान्विपरीताञ्छृणोति च यो न शृणोति चाकस्मात्तं वदन्ति गतायुषम्

श्लोक 61

यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते

श्लोक 62

प्रहारं नैव जानाति योऽङ्गच्छेदमथापि वा पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते

श्लोक 63

वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि स्नातानुलिप्तं यं चापि भजन्ते नीलमाक्षिकाः

श्लोक 64

विपरीतेन गृह्णाति रसान्यश्चोपयोजितान् यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते

श्लोक 65

सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत् गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः

श्लोक 66

रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम् दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति

श्लोक 67

विद्युत्वतोऽसितान्मेघान् गगने निर्घने घनान् विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम्

श्लोक 68

यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽवलोकते धूमनीहारवासोभिरावृतामिव मेदिनीम्

श्लोक 69

प्रदीप्तमिव यो लोकं यो वाप्लुतमिवाम्भसा भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति

श्लोक 70

यो न पश्यति ॠक्षाणि यश्च देवीमरुन्धतीम् ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम्

श्लोक 71

आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम्

श्लोक 72

श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् आतुरो लभते मृत्युं स्वस्थो व्याधिमवाप्नुयात्

श्लोक 73

ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा अकस्माच्च भजन्ते यं स गतासुरसंशयम्

श्लोक 74

यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम्

श्लोक 75

आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा खञ्जनप्रतिभा वापि तं गतायुषमादिशेत्

श्लोक 76

कृष्णा तथाऽनुलिप्ता च जिह्वा शून्या च यस्य वै कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून्

श्लोक 77

कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति भग्ना वा स न जीवति मानवः

श्लोक 78

संक्षिप्ते विषमे स्तब्धे रूक्षे सास्रे च लोचने स्यातां परिश्रुते यस्य स गतायुर्नरो ध्रुवम्

श्लोक 79

केशा सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ लुठन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे

श्लोक 80

नाहरत्यन्नमास्यस्थं न धारयति यः शिरः एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्विमुञ्चति

श्लोक 81

उत्थाप्यमानो बहुशः संमोहं योऽधिगच्छति बलवान्दुर्बलो वापि तं पक्वं भिषगादिशेत्

श्लोक 82

निद्रा निरन्तरं यस्य यो जागर्त्ति च सर्वदा मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता

श्लोक 83

उत्तरौष्ठं च यो लिह्यादुत्करांश्च करोतिः यः प्रेतैर्वा भाषते सायं प्रेतरूपं तमादिशेत्