श्लोक 1
अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु।
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्॥
श्लोक 3
ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः।
प्राणाग्न्यपानान् सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः॥
श्लोक 4
आध्माप्य कुक्षिमुदरम् अष्टधा तच्च भिद्यते॥
श्लोक 5
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः।
तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः॥
श्लोक 6
नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः।
स्युः प्रेतरूपाः पुरुषा भाविनस्तस्य लक्षणम्॥
श्लोक 7
क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते।
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च॥
श्लोक 8
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते।
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः॥
श्लोक 9
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते।
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः॥
श्लोक 10
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता।
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः॥
श्लोक 11
सर्वं त्वतोयमरुणमशोफं नातिभारिकम्।
गवाक्षितं सिराजालः सदा गुडुगुडायते॥
श्लोक 12
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति।
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनः॥
श्लोक 13
सशब्दो निश्चरेद्वायुर्विड् बद्धा मूत्र्मल्पकम्।
नातिमन्दोऽनलो लौल्यं न च स्याद्विरसं मुखम्॥
श्लोक 14
तत्र वातोदरे शोफः पाणिपान्मुष्कसन्धिषु।
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्॥
श्लोक 15
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः।
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत्॥
श्लोक 16
सतोदभेदमुदरं तनुकृष्णसिराततम्।
आध्मातदृतिवच्छब्दमाहंतं प्रकरोति च॥
श्लोक 17
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः।
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता॥
श्लोक 18
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्।
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते॥
श्लोक 19
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते।
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्॥
श्लोक 20
निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता।
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्॥
श्लोक 21
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्।
त्रिदोषकोपनैस्तैस्तैःस्त्रीदत्तैश्च रजोमलैः॥
श्लोक 22
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः।
कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम्॥
श्लोक 23
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्।
बाधते तच्च सुतरां शीतवाताभ्रदर्शने॥
श्लोक 24
अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः।
अतिव्यवायभाराध्वगमनव्याधिकर्शनैः॥
श्लोक 25
वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्द्धते।
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्॥
श्लोक 26
सोऽष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्।
क्रमेण वर्धमानश्च कुक्षावुदरमावहेत्॥
श्लोक 27
श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः।
पाण्डुत्वमूर्च्छाच्छर्दीभिर्दाहमोहैश्च संयुतम्॥
श्लोक 28
अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्।
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः॥
श्लोक 29
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्।
प्लीहवद्दक्षिणात् पार्श्वात् कुर्याद्यकृदपि च्युतम्॥
श्लोक 30
पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे।
दुर्नामभिरुदावर्तैरन्नैर्वान्त्रोपलेपिभिः॥
श्लोक 31
वर्चः पित्तकफान् रुध्वा करोति कुपितोऽनिलः।
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः॥
श्लोक 32
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् मलसङ्गोऽरुचिच्छर्दिरुदरं मूढमारुतम्॥
श्लोक 33
स्थिरं नीलारुणसिराराजीनद्धमराजि वा।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते॥
श्लोक 34
अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा।
भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः॥
श्लोक 35
आम एव गुदादेति ततोल्पाल्पं सविड्रसः।
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः॥
श्लोक 36
शेषश्चापूर्य जठरं जठरं घोरमावहेत्।
वर्धते तदधोनाभेराशु चैति जलात्मताम्॥
श्लोक 37
उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृट्भ्रमैः।
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे॥
श्लोक 38
प्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः।
अत्यम्बुपानान्मन्दाग्रेः क्षीणस्यातिकृशस्य वा॥
श्लोक 39
रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः।
वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ॥
श्लोक 40
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्।
कासश्वासारुचियुतं नावणसिराततम्॥
श्लोक 41
तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु।
दकोदरं महत् स्निग्धं स्थिरमावृत्तनाभि तत्॥
श्लोक 42
उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः।
पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि॥
श्लोक 43
स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्यगास्थितः।
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्॥
श्लोक 44
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्।
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति॥
श्लोक 45
तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिकम्।
सिरान्तर्द्धानमुदकजठरोक्तं च लक्षणम्॥
श्लोक 46
वातपित्तकफप्लीहसन्निपातदकोदरम्।
कृच्छ्रं यथोत्तरं पक्षात् परं प्रायोऽपरे हतः॥
श्लोक 47
सर्वं च जातसलिलं रिष्ठोक्तोपद्रवान्वितम्।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्॥
श्लोक 48
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्॥
इति द्वादशोऽध्यायः॥