श्लोक 84
खेभ्यश्च रोमकूपेभ्यो यस्य रक्तं प्रवर्तते पुरुषस्याविषार्तस्य स सद्यो जीवितं त्यजेत्
श्लोक 85
सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः
श्लोक 86
भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च मरणाभिमुखं जन्तुमुपसृत्य च नित्यशः
श्लोक 87
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः
श्लोक 88
सर्वे द्र व्यमपेक्षन्ते रोगिप्रभृतयो यतः विना वित्तं न भैषज्यं चिकित्साऽङ्ग ततो धनम्
श्लोक 89
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे वैद्यवाक्यकृदश्रान्तो युज्यते परिचारकः
श्लोक 90
वैद्यो व्याधिं हरेद्येन तद्द्र व्यं प्रोक्तमौषधम् तद्यादृशमवश्यं स्याद्रो गघ्नं तादृशं ब्रुवे
श्लोक 91
प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम् अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम्
श्लोक 92
दोषघ्नमग्लानिकरमधिकं न विकारि यत् समीक्ष्य काले दत्तं च भेषजं स्याद् गुणावहम्
श्लोक 93
आग्नेया विन्ध्यशैलाद्या सौम्यो हिमगिरिः स्मृतः अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः
श्लोक 94
अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे
श्लोक 95
आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम्
श्लोक 96
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः
श्लोक 97
शरद्यखिलकार्यार्थं ग्राह्यंसरसमौषधम् विरेकवमनार्थं तु वसन्तान्ते समाहरेत्
श्लोक 98
अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम् गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान्
श्लोक 99
महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः तेषां तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्वशः
श्लोक 100
न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः
श्लोक 101
क्वचिन्मूलं क्वचित्कन्दः क्वचित्पत्रं क्वचित्फलम् क्वचित्पुष्पं क्वचित्सर्वं क्वचित्सारः क्वचित्त्वचः
श्लोक 102
चित्रकं सूरणं निम्बो वासा च त्रिफला क्रमात् धातकी कण्टकारी च खदिरः क्षीरपादपः
श्लोक 103
क्वचिन्निम्बस्य गृह्णीयात्पत्राभावे त्वचामपि बालं फलं तु बिल्वस्य पक्वमारग्वधस्य च
श्लोक 104
अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम् पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम्
श्लोक 105
नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः
श्लोक 106
पुराणन्तु प्रशस्तं स्यात्ताम्बूलं काञ्जिकं तथा शुष्कं नवीनद्र व्यं तु योज्यं सकलकर्मसु
श्लोक 107
आद्र रं! तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः गुडूची कुटजो वासा कूष्माण्डश्च शतावरी
श्लोक 108
अश्वगन्धा सहचरः शतपुष्पा प्रसारिणी प्रयोक्तव्याः सदैवाद्रा र्! द्विगुणं नैव कारयेत्
श्लोक 109
वासानिम्बपटोलकेतकबलाकूष्माण्डकेन्दीवरी-वर्षाभूकुटजाश्च कन्दसहिता सा पूतिगन्धाऽमृता एन्द्री नागबला कुरुण्टकपुरच्छत्राऽमृताः सर्वदा साद्रा र्! एव तु न क्वचिद् द्विगुणिताः कार्येषु योज्या बुधैः
श्लोक 110
घृतं तैलं च पानीयं कषायं व्यञ्जनादिकम् पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम्
श्लोक 111
सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता क्षिप्ताऽम्भसि निमज्जेद्याः भल्लातक्यस्तथोत्तमाः
श्लोक 112
वराहमूर्द्धवत्कन्दो वाराहीकन्दसंज्ञकः सौवर्चलं तु काचाभं सैन्धवं स्फटिकप्रभम्
श्लोक 113
सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम् ओड्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता
श्लोक 114
श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते
श्लोक 115
कर्पूरस्तुवरः स्निग्धः एला सूक्ष्फला वरा श्वेतचन्दनमत्यन्तं सुगन्धि गुरुपूजितम्
श्लोक 116
रक्तचन्दनमत्यन्तं लोहितं प्रवरं मतम् काकतुण्डनिभः स्निग्धो गुरुः श्रेष्ठो गुरुर्मतः
श्लोक 117
सुगन्धि लघु रूक्षं च सुरदारु वरं मतम् सरलं स्निग्धमत्यर्थं सुगन्धि च गुणावहम्
श्लोक 118
अतिपीता प्रशस्ता तु ज्ञेया दारुनिशा बुधैः जातीफलं गुरु स्निग्धं समं शुभ्रान्तरं वरम्
श्लोक 119
मृद्वीका सोत्तमा ज्ञेया या स्याद्गोस्तनसन्निभा करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता
श्लोक 120
खण्डं तु विमलं श्रेष्ठं चन्द्र कान्तसमप्रभम् गव्याज्यसदृशं रुच्यं गन्धं मधु वरं मतम्
श्लोक 121
शालीनां लोहितः शालि षष्टिकेषु च षष्टिकः शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः
श्लोक 122
शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवः
श्लोक 123
दाडिमामलकं द्रा क्षा खर्जूरं च परूषकम् राजादनं मातुलुंगं फलवर्गेषु शस्यते
श्लोक 124
पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा पटोलं फलशाकेषु कन्दशाकेषु सूरणम्
श्लोक 125
एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः
श्लोक 126
हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः कुरङ्गस्ताम्र उद्दिष्टो हरिणाकृतिको महान्
श्लोक 127
जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम् तैलेषु तिलजं तैलमैक्षवेषु सिता हिता
श्लोक 128
शिम्वीषु माषान्ग्रीष्मर्तौ लवणेष्वौषरं त्यजेत् फलेषु लकुचं शाके सार्षपं न हितं मतम्
श्लोक 129
गोमांसं ग्राम्यमांसेषु न हितं महिषीवसा मेषीपयः कुसुम्भस्य तैलं त्याज्यं च फाणितम्
श्लोक 130
मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत् कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत्
श्लोक 131
मत्स्यानिक्षोर्विकारेण तथा क्षौद्रे ण वर्जयेत् सक्तून्मांसपयोयुक्तानुष्णैर्दधि विवर्जयेत्
श्लोक 132
उष्णैर्नभोऽम्बुना क्षौद्रं पायसं कृसरान्वितम् रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम्
श्लोक 133
दशाहमुषितं सर्पिः कांस्ये मधुघृतं समम् कृतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत्
श्लोक 134
एकत्र बहुमांसानि विरुध्यन्ते परस्परम् मधु सर्पिर्वसा तैलं पानीयं वा पयस्तथा
श्लोक 135
लवणं सैन्धवं प्रोक्तंचन्दनं रक्तचन्दनम् चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः कषायलेपयोः प्रायो युज्यते रक्तचन्दनम्
श्लोक 136
अन्तः सम्मार्जने ज्ञेया ह्यजमोदा यवानिका बहिः सम्मार्जने सैव विज्ञातव्याऽजमोदिका
श्लोक 137
पयः सर्पिः प्रयोगेषु गव्यमेव हि गृह्यते शकृद्र सो गोमयको मूत्रं गोमूत्रमुच्यते
श्लोक 138
चित्रकाभावतोदन्ती क्षारः शिखरिजोऽथवा अभावे धन्वयासस्य प्रेक्षेप्यातु दुरालभा
श्लोक 139
तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषग्वरः मूर्वाऽभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः
श्लोक 140
अहिंस्रया अभावे तु मानकन्दः प्रकीर्त्तितः लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता
श्लोक 141
वकुलाभावतो देयं कह्लारोत्पलपङ्कजम् नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते
श्लोक 142
जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते अर्कपर्णादिपयसो ह्यभावे तद्र सो मतः
श्लोक 143
पौष्करा भावतः कुष्ठं तथा लाङ्गल्यभावतः स्थौणेयकस्याभावे तु मिषग्भिर्दीयते गदः
श्लोक 144
चविकागजपिप्पल्यौ पिप्लीमूलवत्स्मृतौ
श्लोक 145
अभावे सोमराज्यास्तु प्रपुन्नाडफलं मतम् यदि न स्याद्दारुनिशा तदा देया निशा बुधैः
श्लोक 146
रसाञ्जनस्याभावे तु दार्वीक्वाथः प्रयुज्यते सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः
श्लोक 147
तालीसपत्रकाभावे स्वर्णताली प्रशस्यते भार्ङ्ग्यभावे तु तालीसं कण्टकारीजटाऽथवा
श्लोक 148
रुचकाभावतो दद्याल्लवणं पांशुपूर्वकम् अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत्
श्लोक 149
अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते द्रा क्षा यदि न लभ्येत प्रदेयं काश्मरीफलम्
श्लोक 150
तयोरभावे कुसुमं मधूकस्य मतं बुधैः लवङ्गकुसुमं देयं नखस्याभावतः पुनः
श्लोक 151
कस्तूर्यभावे कङ्कोलं क्षेपणीयं विदुर्बुधाः कङ्कोलस्याप्यभावे तु जातीपुष्पं प्रदीयते
श्लोक 152
सुगन्धिमुस्तकं देयं कर्पूराभावतो बुधैः कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः
श्लोक 153
कुङ्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम् श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते