अष्टाङ्गसंग्रहः उत्तरस्थानम् 41

श्लोक 1

अथातः सर्पविषविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

दिव्यभौमविभागेन द्विविधाः पन्नगाः स्मृताः।
वासुकिस्तक्षकोनन्तः सगरः सागरालयः॥

श्लोक 3

तथा नन्दोपनन्दाद्याः समिद्धाग्निसमप्रभाः।
दिव्या गर्जन्ति वर्षन्ति द्योतन्ते द्योतयन्ति ते॥

श्लोक 4

धारयन्ति जगत्कृत्स्नं कुर्युःक्रुद्धाश्च भस्मसात्।
दृङ्निश्वासैर्नमस्तेभ्यो नतेष्वस्ति चिकित्सितम्॥

श्लोक 5

दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः।
त्रिधा समासतो भौमा भिद्यन्ते तेत्वनेकधा।
व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगतः॥

श्लोक 6

विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्।
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्॥

श्लोक 7

तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च।
विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु॥

श्लोक 8

रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः।
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः॥

श्लोक 9

ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः।
प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिः।
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः॥

श्लोक 10

गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः॥

श्लोक 11

चतुष्पात् व्यन्तरान् विद्योदतेषामेव सङ्करात्।
व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपणाः॥

श्लोक 12

दिव्यकोजगरः सर्पः पताको वृक्षशायिकः।
शकली पुष्पकः क्षीरी लासिनी सारसाहिकः॥

श्लोक 13

वर्षाहिको ज्योतिरथः शुकवक्त्रो बलाहकः।
गजभक्षःप्लवोद्वाही निर्विषाः षोडशाहयः॥

श्लोक 14

प्रायेणर्तुमती मासं ज्येष्ठं तिष्ठति पन्नगी।
आषाढे सर्पसंयोगादण्डानां मासि कार्तिके॥

श्लोक 15

द्वेशते विंशती द्वे च सा सूते तत्र जायते।
कर्केतनसवर्णेऽण्डे समुद्भिन्ने भुजङ्गमः॥

श्लोक 16

दीर्घलोहितराजीभिश्चित्रे योषिन्नपुंसकम्।
शिरीषपुष्पसदृशे दंष्ट्राः सर्पस्य सप्तमे।
चतस्रः सम्भवन्त्यह्नि विषं तासु चतुर्दशे॥

श्लोक 17

वामाधरासिता पीता तदूर्ध्वा दक्षिणात्वधः।
रक्ता श्यावोत्तरैकद्वित्रिचतुर्विषबिन्दुकाः॥

श्लोक 18

ताः क्रमान्मुद्गमात्रोत्रबिन्दुः एष हि भोगिनाम्।
विषे विकल्पो नान्येषां विद्यांद्दष्ट्रास्तथापराः।
चत्वारिंशद् भुजङ्गस्य विर्विषाश्चतुरुत्तराः॥

श्लोक 19

आयुर्वर्षशतं विंशं पञ्चवर्षशतायुषः।
गोनसा घर्मतप्तानां गवां नासासमुद्भवाः॥

श्लोक 20

तत्रोर्ध्वदृङ्महाकायनेत्रजिह्वाशिरःस्वरः।
व्यक्तभोगः पुनान्धीरः स्त्री स्यात्तस्माद्विपर्यये॥

श्लोक 21

आयता चपला क्लीबः सुकुमारो जडाकृतिः।
मन्दवेगस्वनक्रोधः सिताभस्तिर्यशीर्षकः॥

श्लोक 22

दिनत्रियामासन्ध्यासु प्रबलास्ते यथाक्रमम्।
तदैव चापराध्यन्ति सर्वदैव तु पन्नगी॥

श्लोक 23

ब्राह्मणाः क्रोधना नीलकपिलाः श्वेतलोहिताः।
रक्तास्याः पिङ्गनयना मेध्यदेशविचारिणः॥

श्लोक 24

भोगे यज्ञोपवीतादिद्विजचिह्नोपचिह्निताः।
बिल्वपुष्पहिमोशीरपद्मगुग्गुलुगन्धयः॥

श्लोक 25

क्षत्रिया मानिनो धीरा रक्ताक्षा भृशकोपनाः।
पक्वजाम्बवखर्जूरद्राक्षाभिन्नाञ्जनप्रभाः॥

श्लोक 26

भोगेर्द्ध चन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः।
जातीचम्पकपुन्नागपत्रजोङ्गकगन्धयः॥

श्लोक 27

वैश्याः पारावताभासा वज्रगोमेदकप्रभाः।
बिन्दुमण्डलचित्राङ्गा धूम्रपाटललोहिताः।
बस्तकुष्ठविकक्षीरसर्पिषां गन्धतः समाः॥

श्लोक 28

शूद्राः सवर्णा गोधूममहिषद्विपकर्दमैः।
बिन्दुरेखाचिता रूक्षाः सुराशोणितगन्धयः॥

श्लोक 29

पूर्वमध्यापराह्णेषु चरन्ति ब्राह्मणादयः।
अस्तंगते रवौ शूद्राः दशन्ति ब्राह्मणाः पुरः।
संस्थिता दक्षिणे पार्श्वे क्षत्रिया वामतो विशः॥

श्लोक 30

शूद्रास्तु पृष्ठतो विप्रास्त्रीनप्यनिलपूर्वकान्।
कोपयन्ति क्रमाद्दोषांस्त्रींस्त्रयः क्षत्रियादयः॥

श्लोक 31

दंशगन्धोङ्गगन्धेन ज्ञेयस्तेषां यथायथम्॥

श्लोक 32

वायुमूषिकमण्डूकसर्वभक्षाः क्रमेण ते॥

श्लोक 33

आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः।
पापवृत्ततया वैराद्देवर्षियमचोदनात्।
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम्॥

श्लोक 34

आविष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्॥

श्लोक 35

व्यन्तरः पापशीलत्वान्मार्गमावृत्य तिष्ठति॥

श्लोक 36

यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते।
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत्॥

श्लोक 37

एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्।
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु॥

श्लोक 38

मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्।
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम्॥

श्लोक 39

निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्॥

श्लोक 40

विषं नाहेयमप्राप्य रक्तं दूषयते वपुः।
रक्तमण्वपि तु प्राप्तं वर्धते तैलबिन्दुवत्॥

श्लोक 41

भीरोः सर्पाङ्गसंस्पर्शाद् भयेन कुपितोनिलः।
कदाचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत्॥

श्लोक 42

दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया।
विषोद्वेगो ज्वरश्छर्द्दिर्मूर्च्छा दाहोपि वा भवेत्।
ग्लानिर्मोहोतिसारो वा तच्छङ्काविषमुच्यते॥

श्लोक 43

दंआस्तु सविषः सर्वः सशोफो वेदनान्वितः।
तुद्यते ग्रथितः किञ्चित् कण्डूमान् दह्यते भृशम्।
निर्विषो विपरीतोस्मात्

श्लोक 44

तत्र दंशः फणावताम्।
कूर्मपृष्ठोन्नतो रूक्षः सूक्ष्मदंष्ट्रापदान्वितः॥

श्लोक 45

विकाराः श्यावता वक्त्रनखमूत्राक्षिविट्त्वचाम्।
शीतज्वरः सन्धिरुजा निद्रानाशो विजृम्भिका॥

श्लोक 46

मन्यास्तभ्भःसिराध्मानं पृष्ठकट्यस्थिवाग्ग्रहाः।
शिरोगुरुत्वमरुचिः कासश्वासौ हनुग्रहः॥

श्लोक 47

शूलमुद्वेष्टनं कोष्ठे शोषरोधौ मलाश्रयौ।
सन्दिग्धवाक्त्वं नैश्चेष्ट्यं मृतस्येव विसंज्ञता॥

श्लोक 48

फेनलालोद्गमौ हिध्मा कण्ठे घुरुघुरायणम्।
शुष्कोद्गारो मुहुस्ते ते वातजाश्चापरे गदाः॥

श्लोक 49

दंशो मण्डलिनां सोष्मा सशोषः पीतलोहितः।
पृथुर्विसर्पदाहोषाक्लेदकोथैर्विशीर्यते॥

श्लोक 50

विकारा वक्त्रदन्तादिपीतता तृट्श्रमो भ्रमः।
दाहो मूर्च्छा ज्वरस्तिक्तवक्त्रत्वं पीतदर्शनम्॥

श्लोक 51

रक्तागमनमूर्ध्वाधःशीतेच्छा धूमको मदः।
आशुसर्वाङ्गविसृतिर्गदास्ते ते च पित्तजाः॥

श्लोक 52

दंशो राजीमतां स्निग्धःस्थिरपिच्छिलशोफकृत्।
सान्द्रास्रःशिशिरः पाण्डुस्तद्विकाराःशिरोव्यथा॥

श्लोक 53

अरुचिश्छर्दिरालस्यं हृल्लासो मधुरास्यता।
कण्ठे घुरुघुरः पाको कण्डूरक्ष्णोर्हिमो ज्वरः॥

श्लोक 54

कृच्छ्रादुच्छ्रवसनं निद्रा कासः श्वेतनखादिता।
स्तम्भो गुरुत्वं चाङ्गानां नासिकाक्षिमुखस्रुतिः।
रोमहर्षस्तमश्वासो रोगाश्चान्ये कफोद्भवाः॥

श्लोक 55

व्यन्तरे मिश्रलिङ्गत्वं दष्टः पुंसोर्ध्वमीक्षते।
प्रक्षिपेद्दक्षिणं पादं पूर्वकायसमुद्यतः॥

श्लोक 56

धीरोल्पवेगः शर्वर्यां विपरीतस्तु योषिता।
हीनस्वरोतिसारार्तः कम्पते त्रस्यते ज्वरी॥

श्लोक 57

नपुंसकेन तिर्यग्दृगधीरः प्रियमैथुनः।
बहुवादी च वृद्धेन चिरान्मन्दाश्च वेदनाः॥

श्लोक 58

बालेन शीघ्रं तीक्ष्णाश्च कुमारेणाक्ष्णि दक्षिणे।
रोगी कुमार्या वामे तु गर्भिण्या कृष्णजिह्वदृक्॥

श्लोक 59

जृम्भा क्रोधोपजिह्वार्तः स शूनोष्ठः सिताननः।
गुरूदरः शिरोरोगी सूतादष्टस्तु मेहति।
शोणितं कृच्छ्रशूलार्तः सूचीभिरिव भिद्यते॥

श्लोक 60

वेगानां रक्तमांसाद्याः सप्तोक्ताः पूर्वमाश्रयाः॥

श्लोक 61

दर्वीकृताथ दष्टस्य दुष्टं श्यावीभवत्यसृक्।
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः॥

श्लोक 62

द्वितीये ग्रन्थयो वेगे तृतीये मूर्द्धगौरवम्।
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः॥

श्लोक 63

सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्।
दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम्॥

श्लोक 64

मूर्च्छाविपाकोऽतीसारः प्राप्य शुक्रन्तु सप्तमे।
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम्॥

श्लोक 65

अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्।
तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः॥

श्लोक 66

तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायेते।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः॥

श्लोक 67

दज्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्।
पाण्डुता तेन गात्राणां द्वितीये गुरुताति च॥

श्लोक 68

तृतीये दंशविक्लेदनासिकाक्षिमुखस्रवाः।
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च पञ्चमे।
वाक्यसङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्॥

श्लोक 69

कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम्॥

श्लोक 70

जलप्लुता रतिक्षीणा भीता नकुलनिर्जिताः।
शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः॥

श्लोक 71

तूर्णं देशान्तरायातां विमुक्तविषकञ्चुकाः।
कुशौषधीकण्टकवद्ये चरन्ति च काननम्।
देशं च विद्याध्युषितं सर्पास्तेल्पविषा मताः॥

श्लोक 72

श्मशानचैत्यवल्मीकयज्ञाश्रयसुरालये।
चतुष्पथे जलस्थाने जीर्णोद्यानेषु कोटरे॥

श्लोक 73

क्षीरिद्रुमे निम्बतरौ निर्झरे गिरिगह्वरे।
चक्रवज्रगदाकुन्तत्रिशूलाङ्कजटाधराः॥

श्लोक 74

रक्तास्यनयना ये च ते स्युराशीविषोपमाः।
न तेषां कालनियमो न च वेगेष्वनुक्रमः॥

श्लोक 75

मन्त्रतन्त्रबलान्नापि प्रसह्य विनिवर्तनम्।
उपहारनमस्कारजपशान्तिपरायणः।
कश्चिज्जीवति तैर्दष्टो विरूपो विकलोऽपि वा॥

श्लोक 76

श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु।
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च॥

श्लोक 77

याम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते।
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्॥

श्लोक 78

दष्टमात्रे सितास्याक्षः शीर्यमाणशिरोरुहः।
स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति॥

श्लोक 79

हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः।
जायते युगपद्यस्य स हृच्छूली न जीवति॥

श्लोक 80

वेपथुर्वेदनास्तीव्रा ग्रीवाभङ्गोक्षिरक्तता।
मूर्च्छा गलग्रहश्छर्दिः प्रेतराजस्यकिङ्कराः॥

श्लोक 81

जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः।
रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः॥

श्लोक 82

रोम्णां न शीतलैर्हर्षः श्वयथुर्लोहितासितः।
हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत्॥

श्लोक 83

फेनं वमति निस्संज्ञः श्यावपादकराननः।
नासावसादो भङ्गोङ्गे विड्भेदः श्लथसन्धिता॥

श्लोक 84

विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च।
भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये॥

श्लोक 85

न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः।
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्॥

श्लोक 86

अतोन्यथा तु त्वरया प्रदीप्तागारवद् भिषक्।
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्॥
।इति एकचत्वारिंशोऽध्यायः।