अष्टाङ्गसंग्रहः उत्तरस्थानम्  6

श्लोक 1

अथातः प्रत्येकग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

स्कन्दग्रहे गुग्गुल्वेलवालुकमनश्शिलाहरितालमञ्जिष्ठोशीररास्नागरुदेवदारुश्रीवेष्टकहरेणूगिरिकदम्बकचन्दनैः श्लक्ष्णपिष्टैः प्रदेहो वातहरवृक्षपत्रक्वाथेन कवोष्णेन परिषेकस्तेषामेव च मूलक्वाथे सर्वगन्धसुरामण्डकैडर्यावापवत्तैलं विपक्वमभ्यङ्गः॥

श्लोक 3

बृंहतीद्वयद्विपुर्ननवरेणुकोपकुल्यामुस्तखदिरवचाशङ्खनाभिसरलसर्पसुगन्धासुराह्वकल्कविपक्वंवा॥

श्लोक 4

क्षीरिवृक्षकषायेण क्षीरेण च सिद्धमर्धपलिकैश्च पिष्टैः सारिवाद्विकाकोलीद्विबलांशुमतीद्वयहस्तिकर्णपर्णैर्घृतप्रस्थं पानम्॥

श्लोक 5

रास्नादेवदार्वन्यतरकल्केन वा सक्षीरं साधितं सर्पिः॥

श्लोक 6

वचाकाकादनीसर्पकञ्चुकसर्षपैरुष्ट्राजाव्यश्वगोरोमभिश्च सघृतैर्धूपैः।
सिद्धार्थकसर्जरसकुष्ठहिङ्गुगुग्गुलुभिर्वा॥

श्लोक 7

सोमवल्लीन्द्रवल्लीशमीबिल्ववृन्दाकमृगादिनीमूलानि सूत्रेण ग्रथितानि कण्ठेन शिरसा वा धारयेत्॥

श्लोक 8

रक्तमाल्यानुलेपनवस्त्रपताकामणिबीजैर्विविधैश्च भक्ष्यैः सदधिघृतमधुलाजकुल्माषमांसमत्स्यसुरासवं समयूरकुक्कुटं सघण्टाकं सशूर्पव्यजनं च कुमारग्रहे रक्तौदनेन बलिमुपोषितो निवेदयेत्॥

श्लोक 9

तत्र च रात्रावग्निं ज्वालयित्वा मन्त्रमिमं पठन् मधुसर्पिषा जुहुयात्॥

श्लोक 10

अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति चान्ततः।
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः॥

श्लोक 11

शिरसा त्वाभिवन्देहं प्रतिगृह्णीष्व मे बलिम्।
नीरुजो निर्विकारश्च शिशुर्भवतु सर्वदा॥

श्लोक 12

सर्वेष्वेव ग्रहेषु त्रिकालमग्निं पूजयेत्तर्पयेच्च।
विशेषतः स्कन्दग्रहे त्रिरात्रं च रात्रौ रात्रौ गायत्र्यभिमन्त्रितोदकेन चत्वरे धात्रीकुमारयोः स्नपनमाचरेत्॥

श्लोक 13

त्रिकालं च मन्त्रेणानेन बालमपमार्जयेत् प्रतिसरां च बध्नीयात्॥

श्लोक 14

तपसां तेजसां चैव यशसां वपुषां तथा।
विधाता योऽव्ययो देवः स ते स्कन्दः प्रसीदतु॥

श्लोक 15

ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः।
देवसेनारिपुहरः पातु त्वा भगवान् गुहः॥

श्लोक 16

देवदेवस्य महतः पावकस्य च यः सुतः।
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छुतु॥

श्लोक 17

रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः।
रक्तादित्यवपुर्देवः पातु त्वा क्रौञ्चसूदन इति॥

श्लोक 18

विशाखे स्कन्दग्रहोक्तो वचाकुष्ठान्वितः प्रदेहो गोलोमीबिल्वशिरीषमुस्तसुरसादिक्वाथेन परिषेकः।
सर्पसुगन्धादेवदारुकुष्ठमुस्ताकल्केन सगोमूत्रबस्तमूत्रेण सिद्धं तैलमभ्यङ्गः॥

श्लोक 19

क्षीरिवृक्षकषायेण जीवनीयगर्भं सपयस्कं सर्पिः सिद्धं पानम्।
जीवकर्षभक्षीरिणीबृहतीहरिद्रांशुमतीद्वयमधुकैर्वा विदारीद्वयतवक्षीरीमृद्वीकामधुकरास्नानीलोत्पलकन्दवचाव्योषैर्वा॥

श्लोक 20

गृद्ध्रोलूकपुरीषवृषभरोमकेशहस्तिनखैर्घृताक्तैर्धूपः।
अनन्ताकुक्कुटीमर्कटीबिम्बीसमङ्गाश्वेतगिरिकर्णीकाः पूर्वोक्तानि च पूर्ववद्धारयेत्॥

श्लोक 21

पक्वाममांसरुधिरदधिवारुणीयुक्तो वटवृक्षे बलिश्चतुष्पथे स्नानम्।
मन्त्रश्च॥

श्लोक 22

स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा।
विशाखसंज्ञः स शिशोः शिवोस्तु विकृताननः॥

श्लोक 23

नैगमेषे विशाखोक्तः प्रदेहोग्निमन्थवरुणनलरोहिषपूतीकपारिभद्रकैः परिषेको धान्याम्लेन सबीजेन गुग्गुल्वश्वगन्धासर्षपोशीरश्वेताकुष्ठशताह्वाविपक्वं तैलमभ्यङ्गः॥

श्लोक 24

दशमूलक्वाथे मधुरस्कन्धगर्भं सक्षीरं सर्पिः पानम्।
सर्पगन्धाबस्तनखरोमभिर्धूपः।
सर्पगन्धाबस्तगन्धातुम्बीमृगोर्वारुशतावरीसहदेवापुनर्नवबीजानि धारयेत्॥

श्लोक 25

विचित्रमाल्यफलशुक्लविलेपनौदनदधिघृतगुडक्षीरैर्महापथे क्षीरिद्रुमे वा बलिः।
नदीतीरे स्नानम् मन्त्रश्च॥

श्लोक 26

अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः।
बालं बालहितो देवो नैगमेषोऽभिरक्षतु॥

श्लोक 27

स्वाहा।
श्वग्रहे गवाक्षीब्रह्मदत्ताबृहतीद्वयसारिवाद्द्रीवेरकुष्ठभूमिकदम्बसुरसमञ्जरीकरवीरपुष्पैः प्रदेहः।
मयूरो लूकाश्वमहिषीपुरीषरोमभिश्च।
बिल्वैरण्डनक्तमालारलुकपत्रक्वाथः परिषेकः॥

श्लोक 28

वयस्थाशतावरीसारिवापयस्यैरण्डसहदेवात्रिकटुककल्कक्षीरसिद्धं तैलमभ्यङ्गः।
तथैव च घृतं पानम्।
गोबस्तमूत्रभावितशुष्कमत्स्यचूर्णो निशीथे धूपः॥

श्लोक 29

वचावयस्थाब्राह्मीजटिलागोलोमीलम्बापूतनाकेशीगिरिकदम्बकेकैषीकासहदेवीर्धारयेत्॥

श्लोक 30

सघृतसुरामांसदधिरुधिरपललश्चत्वरे बलिः।
सङ्करकूटे स्नानम्।
मन्त्रश्च॥

श्लोक 31

रक्षार्थं कार्तिकेयस्य कृत्तिकोमाग्निशूलिभिः।
योसौ श्वविग्रहः सृष्टः स देवस्त्वाभिरक्षतु॥

श्लोक 32

स्वाहा।
पितृग्रहे पूर्वोक्तः प्रदेहो वचावयस्थाजीवन्तीधातकीप्रियङ्गुगुग्गुलुरास्नामनश्शिलालैर्वा।
वचादिभिरेव सिद्धं तैलमभ्यङ्गः॥

श्लोक 33

बिल्वकपित्थकरञ्जतर्कारीसुरसपाटलीवरणपारिभद्रकपारिजातमातुलुङ्गपत्रक्वाथेन रात्रौ परिषेको बिल्वादिभिरेव च तैलं सुराबस्तमूत्रयुक्तं साधितमभ्यङ्गः॥

श्लोक 34

त्रिफलांशुमतीद्वयपयस्यामधुककल्केन दशमूलनिर्यूहे सक्षीरं सर्पिः पक्वं पानम्।
देवदारुभार्ङ्गीविडङ्ग चन्दनकाकोलीद्वयजीवकर्षभकैर्वा सक्षारैः॥

श्लोक 35

लक्ष्मीपुरकुष्ठगोलोमीजटिलोग्रगन्धाभिः सिद्धं तैलं नावनम्।
एभिरेव च सुरापिष्टैर्लेपः॥

श्लोक 36

गृद्ध्रोलूकवानररोमाणि सघृतानि तत्पुरीषं वा सुप्तजने धूपो वचादिभिर्वा प्रदेहोक्तैः पूर्वोक्तो वा।
पूर्वोक्ता एव च धारयेत्॥

श्लोक 37

सुरासवगुडापूपपिष्टतिलकृतभक्षो वृक्षमूले सवृषभः काञ्चनाक्षियुगयुक्तः स्वयं पित्रा कुमारस्य निर्वापणीयो बलिः।
क्षीरिवृक्षसमीपे स्नानम्।
मन्त्रश्व॥

श्लोक 38

यः पिता सर्वबालानां ग्रहाणां पूजितो वरः।
वृक्षमूले कृतावासः स त्वां पातु पिता सदा॥
स्वाहा॥

श्लोक 39

शकुन्यां मधुकद्रीबेरोशीरसारिवापद्मकोत्पलमञ्जिष्टालोद्ध्रप्रियङ्गुगैरिकैः प्रदेहः।
सुरामूत्रपिष्टैर्वा लोध्रयष्टीमधुकमञ्जिष्ठाहरीतकीदेवदारुभिर्व्रणोक्ताश्च प्रदेहाः।
वेतसाम्लकपित्थैः सपञ्चमूलैर्वा।
शुक्तिशङ्खशम्बूकभस्ममञ्जिष्ठाभयामधुकैस्तैलं पक्वं व्रणरोपणम्॥

श्लोक 40

क्षीरितरुभिः परिषेको मार्कवमूलकामलकीत्वक्पत्रप्रियङ्गुमनश्शिलालैलाद्वययष्टीक्रमुकलोध्रधातकीसारिवाञ्जनोत्पलपतङ्गसमङ्गाद्विहरिद्रामांसीमञ्जिष्ठाचन्दनपद्मकसुवर्णगौरिकैस्तैलं सपयस्कं पक्वमभ्यङ्गो ग्रहहा व्रणरोपणश्च॥

श्लोक 41

अर्जुनफललोध्रमधुकोदुम्बरवचाचूर्णं क्षौद्रयुक्तो मुखपाके मुखोद्घर्षः।
विशाखोक्तं सापः पानम्।
स्कन्दोक्तो धूपः।
काकपिच्छेन वा गोबालोग्रगन्धारक्षोघ्नघृतमयूरचन्द्रकैर्वा॥

श्लोक 42

कटम्भराकुक्कुटीमर्कटीलम्बासहदेवीह्रीबेरोशीराणि धारयेत्।
नागदन्ती लक्ष्मणाबृहतीद्वयमृगोर्वारुशतावरीसहदेव्यो वा॥

श्लोक 43

तिलतण्डुलमत्स्यमनशिशलाहरितालसम्पृक्तस्तिलपिष्टकृतशकुनिकैः करञ्जे बलिर्निष्कुटे स्नानम्।
मन्त्रश्च॥

श्लोक 44

अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता।
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु॥

श्लोक 45

दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु॥

श्लोक 46

पूतनायां हिङ्गुवचागिरिकदम्बकुष्ठैलाद्वयसुराह्वैः प्रदेहः।
कपित्थशिरीषन्यग्रोधबिल्वैरण्डबकुलधव वंशाग्निमन्थपत्रक्वाथः सर्वगन्धोदकयुक्तः परिषेको वरणकट्वङ्गास्फोतकपोतवङ्कापारिभद्रदैर्वा॥

श्लोक 47

कुष्ठसर्जरसवचागोलोमीवयस्थामनश्शिलालैस्तैलं साधितमभ्यङ्गः।
मधुरौषधैः साधितं सर्पिः पानम्।
एलाद्वयकुष्ठवचाहिङ्गुदेवदारुगिरिकदम्बकैर्धूपः।
बिम्बीगुञ्जाकाकादनीनद्रवारुणीचित्रपला धारयेत्॥

श्लोक 48

विचित्रमाल्यमत्स्योदनकृसरपललवान् बलिः सङ्करकूटे।
तद्वच्छरावसम्पुटस्थः शून्यग्रहे चतुर्दिशं प्रक्षेप्यः।
तत्र चोच्छिष्टेन स्रपनम्।
मन्त्रश्च॥

श्लोक 49

मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा।
शून्यागाराश्रया देवी दारकं पातु पूतना॥

श्लोक 50

दुर्दर्शना महाकाया कराला मेघकालिका।
भिन्नागाराश्रया देवी दारकं पातु पूतना॥

श्लोक 51

शीतपूतनायां पूतनोक्तः प्रदेहो धारणीयानि च।
वरणकपित्थतुलसीपाशिकावंशीबिल्वपाटलीनन्दीभल्लातकपत्रनिर्यूहेण परिषेकः॥

श्लोक 52

मुस्तामरदारुकुष्ठसर्पगन्धैर्गोबस्तमूत्रयुक्तं तैलं विपक्वमभ्यङ्गः।
काश्मर्यपृश्निपर्णीलोध्रमधुकैर्मधुरवर्गेण च समक्षीरं सर्पिः शृतं प्राश्यमानं शीतपूतनां छर्दिहिध्माकासश्वासांश्च शमयति॥

श्लोक 53

सातिसारायां तु खदिरपलाशसर्जार्जुनरोहिणीत्वक्क्वाथेन तुल्यपयः सर्पिः।
गृध्रोलूकविड्बस्तगन्धाहिनिर्मोकनिम्बपत्रैर्धूपः।
जीर्णगोचर्मसर्षपभिक्षुसङ्घाटीसर्पकञ्चुकैर्वा॥

श्लोक 54

मुद्गौदनप्रायो जलाशयसमीपे बलिस्तत्रैव च स्नानम्।
मन्त्रश्च॥

श्लोक 55

मुद्गौदनाशना देवी सुराशोणितपायिनी।
जलाशयालयरता पातु त्वा शीतपूतना॥

श्लोक 56

अन्धपूतनायां सर्वगन्धैः सशिरोवक्त्रस्य प्रदेहः।
वरुणास्फोतपारिभद्रकवृक्षादनीनागबलागैरिकशतावरीभिः परिषेकः।
हरितालमनश्शिलाकुष्ठसर्जरससुरासौवीरकसंस्कृतं तैलमभ्यङ्गः॥

श्लोक 57

स्यन्दनस्योनाककाश्मर्यखदिरकुष्ठैर्मधुरवर्गेण च क्षीरिवृक्षकषाये सक्षीरं शृतं घृतं मधुयुक्तं चक्षुःकामोपसृष्टानां प्राशः।
छर्दिकासातीसारवतां तु तदेव पिप्पलीपिप्पलीमूलसालपर्णीबृहतीकल्कोपेतम्॥

श्लोक 58

रक्षोघ्ररुष्करसर्जरसमधुभिर्धूपः।
जीर्णाभिक्षुसङ्घाटीकृकवाकुपुरीषाहित्वक्केशचर्मभिर्वा॥

श्लोक 59

अनन्ता कुक्कुटी मर्कटी बिम्बीर्धारयेत्।
तुम्बी चित्रफलामृगोर्वारुजालिनीकाकादनीर्वा॥

श्लोक 60

पक्वाममांसशोणितैश्चतुष्पथे बलिर्गृहे स्नानम्।
मन्त्रश्च॥

श्लोक 61

कराला पिङ्गला मुण्डा कषायाम्बरवासिनी।
देवी बालमिमं प्रीता पालयत्वन्धपूतना॥

श्लोक 62

मुखमण्डितिकायां वारुण्या श्लक्ष्णपिष्टैः सर्वगन्धैर्लेपः।
बिल्वैरण्डकपित्थाग्निमन्थवंशीकुबेराक्षीपत्रक्वाथेन परिषेकस्तेषामेव च स्वरसेन मधुकवाजिगन्धागर्भमैकध्यं तैलं वसा च पक्वमभ्यङ्गः॥

श्लोक 63

ह्रस्वपञ्चमूलमधुरवर्गसिद्धं घृतं समधुशर्करं प्राशः।
पाठाकेतकसूचीनिम्बफलपिप्पलीविडङ्गहरीतकीभस्मवचाचोरकचूर्णो वा मधुसर्पिर्भ्याम्।
ऋक्षरोममषीपाठामरिचपिप्पलीचूर्णो वा देवदारुभस्मयुक्तो मूर्वाव्योषमुस्तरास्नागिरिकदम्बकाश्वगन्धाचूर्णो वाशोकरोहिणीचूर्णो वा।
एभिरेव च विपक्वमाजं घृतं पयो वा पिबेत्॥

श्लोक 64

एभिरेव च योगैर्धूपोपदेहाभ्यङ्गनस्यतैलाक्षिपूरणपरिषेकान् कुर्यात्।
यवकुष्ठसर्जरसैर्धूपः।
सर्पचाषकीररल्लकजिह्वा धारयेत्।
मातुश्चास्य श्लेष्महरमौषधं पाने स्तनोद्वर्तने च युञ्ज्यात्॥

श्लोक 65

विविधगन्धधूपमाल्याञ्जनपारदमनश्शिलायुक्तो गोष्ठमध्ये बलिर्गवां मध्ये स्नानम्।
मन्त्रश्च॥

श्लोक 66

अलङ्कृता रूपवती सुभगा कामरूपिणी।
गोष्ठमध्यालयरता पातु त्वा मुखमण्डिता॥

श्लोक 67

रेवत्यां सर्वगन्धैः कुलत्थमाषचूर्णेन च प्रदेहः।
अश्वगन्धाजशृङ्गीसारिवाद्विपुनर्नवद्विसहाविदारीभिः परिषेकः॥

श्लोक 68

कुष्ठसर्जरससांधितं तैलमभ्यङ्गः।
धवाश्वकर्णधातकीककुभतिन्दुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः।
यवयवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः।
वरणारिष्टसिन्दुकान्वितश्चाविकमूत्रेण कण्डको लेपः॥

श्लोक 69

शुक्लमाल्यविलेपनलाजौदनपायसैर्गोतीर्थे बलिः।
नदीसङ्गमे क्षीरिवृक्षसमीपे वा स्नपनम्।
मन्त्रश्च॥

श्लोक 70

नानावस्त्रधरादेवी चित्रमाल्यानुलेपना।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु॥

श्लोक 71

शुष्करेवत्यां धूपवर्ज्यः स्कन्दग्रहोक्तो विधिः।
वचाश्वगन्धाहिङ्गुलाजसिद्धार्थकैरुद्वर्तनम्।
सर्षपतैलं वचासिद्धं नेत्रपूरणम्॥

श्लोक 72

काकगृध्रगर्दभशकृद्भिर्लेपः।
कुलीरकपालशल्यकशुक्तिमेषशृङ्गहयखरजाहकहस्तिनखनकुलरोमभिर्धूपः सर्वग्रहघ्नः॥

श्लोक 73

कुल्माषैर्मद्येन शुष्कमांसेन च शुष्कवृक्षे बलिः।
तत्रैव च स्नानम्।
मन्त्रश्च॥

श्लोक 74

उपासते या सततं देव्यो विविधभूषणाः।
लम्बा कराला विनता तथैव बहुपुत्रिका।
रेवती शुष्कनामा च सा ते देवी प्रसीदतु इति॥

श्लोक 75

भवति चात्र।
अनुबन्धान्यथाकृच्छ्रं ग्रहापायेप्युपद्रवान्।
बालामयनिषेधोक्तभेषजैः समुपाचरेत्॥
॥इति षष्ठोऽध्यायः॥
द्वितीयं कौमारतन्त्रं सम्पूर्णम्।