अष्टाङ्गसंग्रहः निदानस्थानम् 11

श्लोक 1

अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

भुक्तैः षर्युषितास्युष्णरूक्षशुष्कविदाहिभिः।
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः॥

श्लोक 3

दुष्टत्वङ्मांसमेदोस्थिस्नावासृक्कण्डराश्रयः।
यः शोफो बहिरन्तर्वा महामूलो महारुजः॥

श्लोक 4

वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः।
दोषैः पृथक् समुदितैः शोणितेन क्षतेन च॥

श्लोक 5

बाह्योऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः।
आन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः॥

श्लोक 6

वल्मीकवत् समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्।
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे॥

श्लोक 7

स्याद्वृक्कयोरपाने वा वातात्तत्रातितीव्ररुक्।
श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः॥

श्लोक 8

व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्।
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्॥

श्लोक 9

क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात्।
सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः॥

श्लोक 10

चिरोत्थानविदाहशच् सङ्कीर्णः सन्निपाततः।
सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्॥

श्लोक 11

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः।
पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथान्तरः॥

श्लोक 12

शस्त्राद्यैरभिघातेन क्षते वापथ्यकारिणः।
क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्॥

श्लोक 13

पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्यपद्रवम्।
तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः॥

श्लोक 14

नाभ्यां हिध्मा भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च।
श्वासो यकृति रोधस्तु प्लीहन्युच्छूवासस्यतृट्पुनः॥

श्लोक 15

गलग्रहश्च क्लोम्नि स्यात् सर्वाङ्गप्रग्रहो हृदि।
प्रमेहस्तमकः कासो हृदयोद्धटनं व्यथा॥

श्लोक 16

कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च।
सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः॥

श्लोक 17

पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्।
आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्॥

श्लोक 18

नाभेरूर्ध्वं मुखात् पक्वाः प्रस्रवन्त्यधरे गुदात्।
गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्रधौ॥

श्लोक 19

यथास्वं व्रणवत्तत्र विवर्ज्यः सन्निपातजः।
पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा॥

श्लोक 20

पक्वश्चान्तःस्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः॥

श्लोक 21

एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्।
सूतानां गर्भिणीनां वा सम्भवेच्छ्रवयथुर्घनः॥

श्लोक 22

नाडीनां सूक्ष्मवक्त्रत्वात् कन्यानां तु न जायते॥

श्लोक 23

क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्।
मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः॥

श्लोक 24

प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः।
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः॥

श्लोक 25

मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्।
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्॥

श्लोक 26

पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्।
कफाच्छीतो गुरुः स्निग्धः पण्डूमान्कठिनोल्परुक्॥

श्लोक 27

कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः।
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः॥

श्लोक 28

मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः।
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः॥

श्लोक 29

मूत्रकृच्छ्रमधः स्याच्च वलयः फलकोशयोः।
वातकोपिभिराहारैः शीततोयावगाहनैः॥

श्लोक 30

धारणेरणभाराध्वंविषमाङ्गप्रवव्र्तनैः।
क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा॥

श्लोक 31

पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्।
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा॥

श्लोक 32

उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः।
प्रपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नोति पुनश्च मुक्तः॥

श्लोक 33

आन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः।
रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः॥

श्लोक 34

गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः।
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः॥

श्लोक 35

अथ यो ज्वरातिसारादिभिर्वमनादिभिर्वा कर्मभिः कर्शितो वातलान्याहारयत्याहाराभिलाषी वा शीतमुदकं पिबत्यन्नपानानन्तरं वा लङ्घनप्लवनव्यवाययानयानादीन् देहविक्षोभिणः सेवतेऽनुदीर्णां वा छिर्दिमुदीरयत्युदीर्णान् वा वातादीन् निश्वासोच्छ्वासौ वा निगृह्णात्यस्नेहपूर्वं वा वमनविरेचने करोति तथा शोधित एव वातिविदाहिनोऽभिष्यन्दिनो वा निषेवते तस्य यथास्वं वातप्रधानाः कुपिता दोषाः पृथक् संसृष्टाः समस्ताः सरक्ता वा महास्रोतोऽनुप्रविश्यावृत्योर्ध्वमधश्च मार्गमवश्यं शूलमुपजनयन्तो गुल्ममभिनिर्वर्तयन्ति।
यतश्च तस्मिन् शूलविद्ध इव व्यथते तीव्रवेदनार्दितः कृच्छ्रोच्छ्वासस्तस्माच्छूलमित्युच्यते॥

श्लोक 36

तत्रातिकर्शनात् कफपित्ताभ्यां वा मार्गनिरोधाल्लब्धाश्रयो वायुरुत्प्लुतो रौक्ष्यात् कठिनीभूतः स्वाश्रये स्वतन्त्रः परतन्त्रो वा पित्तश्लेष्माश्रये स्पर्शोपलभ्यः पिण्डितत्वादमूर्तोऽपि मूर्ततामिवोपगतो ग्रन्थिरूपेणावतिष्ठमानो गुल्मसंज्ञां लभते।
तस्य पञ्च स्थानानि बस्तिर्नाभिः पार्श्वे हृदयं च।
अथास्य पूर्वरूपाणि सदनमग्निशरीरयोररुचिः सौहित्यासहिष्णुता कुक्षिशूलमाध्मानमुद्गिरणं बहुशो विदग्धेऽन्ने छर्दिराटोपो मलस्य प्रादुर्भावोऽप्रवृत्तिश्च॥

श्लोक 37

तत्र वातात् सूच्येव च शङ्कुनेव च व्यधो मन्याशिरःशङ्खशूलज्वराङ्गमर्दप्लीहाटोपान्त्रकूजोदावर्तोच्छ्वासोपरोधमुखशोषस्तब्धगात्रताः वायुकालेषूपद्रववृद्धिर्विषमाग्निता कृष्णारुणपरुषत्वङ्नखादित्वं गुल्मश्चास्य चलत्वाद्वायोरनियतस्थानसंस्थानोदयप्रलयाल्पमहारुजः पिपीलिकापरिगत इव तोदस्फुरणबहुलो विस्ताअरयतीव स्वदेशे चर्म कदाचित् कदाचित्सङ्कोचयतीव हर्षयति रोमाणि वेदनातिप्रवृत्तौ तु सर्वस्मिन्नपि देहे प्रायो बस्त्याश्रयश्च भवति॥

श्लोक 38

पित्ताद्दाहो धूमकोऽम्लकस्तृष्णा ज्वरः स्वेदो विड्भेदो मूर्च्छा शीतोपशयता हरितहारिद्रत्वगादित्वं गुल्मश्चास्य तप्तायःपिण्ड इव तमवकाशं दहति दूयते धूमायत ऊष्मायते शिथिल इव व्रण इवास्पर्शसहो निर्लोमा प्रायो नाभ्याश्रयश्च॥

श्लोक 39

कफात् स्तैमित्यमरोचकाविपाकौ हृदयोपलेपः शीतज्वरस्तृप्तिः सदनं कासो हृल्लासः पीनसोनिद्रालस्यं नखादिशुक्लता गुल्मश्च सुप्तस्थिरगुरुकठिनोऽवगाढोऽल्परुक् प्रायो हृत्पार्श्वाश्रयश्च।
संसृष्टलिङ्गः संसर्गात्।
स त्रिविधः।
सर्वलिङ्गनिचये निचयगुल्मः सोऽसाध्यः॥

श्लोक 40

रक्तगुल्मस्तु गर्भकोष्ठार्तवागमनवैशेष्यात् पारतन्त्र्यादवैशारद्यादुपचारानुरोधाच्च स्त्रिया एव भवति॥

श्लोक 41

तत्र यदासावृतुमती नवप्रसूता योनिरोगिणी वा वातलान्यासेवेत तदास्या वायुः प्रकुपितो योन्या मुखमनुप्रविश्यार्तवमपरुणद्धि।
तदुपरुध्यमानं मासे मासे कुक्षिमभिनिर्वर्तयति गर्भलिङ्गानि च हृल्लासतन्द्राङ्गसाददौहृदस्तन्यदर्शनादीनि।
वायुसंसर्गात् पुनः पित्तैकप्रकोपतया च वातपित्तगुल्मरूपाणि क्रमाच्छूलस्तम्भदाहातीसारादीनि गर्भाशये च सुतरां शूलं तया योन्या दौर्गन्ध्यमास्रावं च करोति।
गुल्मश्च न गर्भ इवाङ्गैः पिण्डित इव तु चिरेण सशूलं स्पन्दते।
गुल्म एव वर्द्धते न कुक्षिः॥

श्लोक 42

स्वदोषाधिष्ठानश्च सर्वो भवति गुल्मः।
तस्माच्च्चिरेण नैव वा पाकमेति।
भृशदुष्टरक्ताश्रयत्त्वात्तु विद्रधिः शीघ्रपाको भवतीति।
भवति चात्र॥

श्लोक 43

गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः।
अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्॥

श्लोक 44

अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्।
वैवर्ण्यमवकाशस्य बहिरुन्नतताधिकम्॥

श्लोक 45

साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्।
ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते॥

श्लोक 46

घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः।
आनाहलिङ्गस्तिर्यक् तु प्रत्यष्ठीला तदाकृतिः॥

श्लोक 47

पक्वाशयात् गुदोपस्थं वायुस्तीव्ररुजश्चरन्।
तूनी प्रतूनी तु भवेत्स एवातो विपर्यये॥
इति एकादशोऽध्यायः॥